हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह- श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् । चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा ध्यायन्तं छितसर्वदोषमवधी: सोऽगात् परं ते पदम् ॥८॥
लील…
पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा- सेनानीभिरनेकमित्रनिवहैर्व्याजृम्भितायोधन: । सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो भीतिप्रद्रुतनष्टशिष्टतनयस्त्वामापतत् हेहय: ॥७॥
पुत्राणाम्-अयुतेनwit…
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं बिभ्रद्ध्यातमहोदरोपनिहितं चापं कुठारं शरान् । आरूढ: सहवाहयन्तृकरथं माहिष्मतीमाविशन् वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथा: सङ्गरम् ॥६॥
शुक्र-उज्जीवितb…
आखेटोपगतोऽर्जुन: सुरगवीसम्प्राप्तसम्पद्गणै- स्त्वत्पित्रा परिपूजित: पुरगतो दुर्मन्त्रिवाचा पुन: । गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि- प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृत: ॥५॥
आखे…
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागम: स्वाश्रमम् …
लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना- गासक्तां किल मातरं प्रति पितु: क्रोधाकुलस्याज्ञया । ताताज्ञातिगसोदरै: सममिमां छित्वाऽथ शान्तात् पितु- स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरान् ॥३॥
लब्ध-आम…
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे रामो नाम तदात्मजेष्ववरज: पित्रोरधा: सम्मदम् ॥२॥
सत्यं कर…
अत्रे: पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो जात: शिष्यनिबन्धतन्द्रितमना: स्वस्थश्चरन् कान्तया । दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा- नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥१॥
अत्रे: …
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या । नो चेत् स्वात्मानुभूते: क्व नु तव मनसो विक्रिया चक्रपाणे स त्वं सत्त्वैकमूर्ते पवनपुरपते व्…
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभू: । हेतो: सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यै: साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठ…
प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी- र्मैथिल्यां पापवाचा शिव! शिव! किल तां गर्भिणीमभ्यहासी: । शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दय: शूद्रपाशं तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता स…
गृह्णन् जम्भारिसंप्रेषितरथकवचौ रावणेनाभियुद्ध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् । देवश्रेणीवरोज्जीवितसमरमृतैरक्षतै: ऋक्षसङ्घै- र्लङ्काभर्त्रा च साकं निजनगरमगा: सप्रिय: प…
सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल- घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । मायाक्षोभेषु वैभीषणवचनहृतस्तम्भन: कुम्भकर्णं सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिण…
कीशैराशान्तरोपाहृतगिरिनिकरै: सेतुमाधाप्य यातो यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रै: स्वसैन्यै: । व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगान्नागास्त्रबद्ध: पतगपतिगरुन्मारुतैर…
त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमी- चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाण: । तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष- प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिर…
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य- प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्वाङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरण: सोढबन्धो दशास्यं दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स ह…
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता- मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । सन्देशं चाङ्गुलीयं पवनसुतकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्…
नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभे: कायमुच्चै: क्षिप्त्वाङ्गुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरलितस्त्वं मत…