हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजञ्चैकं दत्वा प्रजिघयिथ नागान्निजपुरीम् । खलेनाबद्धानां स्वगतमनसां षोडश पुन: सहस्राणि स्त्रीणामपि च धनराशिं च विपुलं ॥८॥
स्तुत: भूम्याhymns sung (to Thee) b…
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता । चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं रथाङ्गेन छित्वा नरकमकरोस्तीर्णनरकम् ॥७॥
मुर:-त्वां(the Asura) Mura (to) Theeपञ्च-आ…
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नङ्के भामामुपवनमिवारातिभवनम् । विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसै: पुरं तावत् प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥६॥
स्मृत-आयातं(as and when) remembered, co…
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् । अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥५॥
पार्थ-आद्यै:-अपिby Arjuna an…
सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देव सन्तर्दनाद्या- स्तत्सोदर्या वरद भवत: साऽपि पैतृष्वसेयी ॥४॥
सत्यां गत्वाSatya, goin…
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दीं नगरमगम: खाण्डवप्रीणिताग्नि: । भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्तीम् ॥३॥
तत्र क्रीडन्-अपि चth…
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनु: । तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामासहाय: ॥२॥
भद्रां भद्रांthe virtuous Subha…
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूय: सह खलु तया याज्ञसेनीविवाहम् । पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां सशक्रप्रस्थं पुरमपि विभो संविधायागतोऽभू: ॥१॥
स्निग्धां मुग्धांloving…
यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचान्तशयन: पवनेश पाया: ॥११॥
यातं भयेनhaving fled in fearकृतवर्मयुतंKritvarma along withपुन:-तम्-…
भक्तस्त्वयि स्थिरतर: स हि गान्दिनेय- स्तस्यैव कापथमति: कथमीश जाता । विज्ञानवान् प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव ॥१०॥
भक्त:-त्वयिdevoted to Theeस्थिरतर:very firmlyस हि गान्दिनेय:t…
अक्रूर एष भगवन् भवदिच्छयैव सत्राजित: कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥९॥
अक्रूर एषAkrura, thisभगवन्O Lord!भवत्-इच्छया-एवby Thy will aloneसत्…
शोकात् कुरूनुपगतामवलोक्य कान्तां हत्वा द्रुतं शतधनुं समहर्षयस्ताम् । रत्ने सशङ्क इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥८॥
शोकात्due to griefकुरून्-उपगताम्-to the country of Kuru's havi…
व्रीलाकुलां रमयति त्वयि सत्यभामां कौन्तेयदाहकथयाथ कुरून् प्रयाते । ही गान्दिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥७॥
व्रीला-आकुलांby shyness overcomeरमयति त्वयि(her) delighting (when) Tho…
तदनु स खलु ब्रीलालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणिं गहनाशय: ॥६॥
तदनु स खलुthereafter he indeedब्रीला-लोल:s…
बुध्वाऽथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् । अनुगृह्णन्नमुमागा: सपदि च सत्राजिते मणिं प्रादा: ॥५॥
बुध्वा-अथrecognizing (Thee) thenतेन दत्तांby him was givenनव-रमणींto the young girl (his daughter…
भवन्तमवितर्कयन्नतिवया: स्वयं जाम्बवान् मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभि- श्चिरं तव समर्चनं व्यधित भक्तचूडामणि: ॥४॥
भवन्तम्-अवितर्कयन्-Thee not identifyin…
शशंसु: सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका । तत: सर्वज्ञोऽपि स्वजनसहितो मार्गणपर: प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभू: कपिगुहाम् ॥३॥
शशंसु:talked aboutसत्राजित्-गिरम्-अ…
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥२॥
अदत्तं तंnot giving thatतुभ्यं मणिवर…
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमन्तकमणिं भगवन्नयाची: । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥१॥
सत्राजित:-from Satraajitत्वम्-अथThou thenलुब्ध-वत्-greedy man l…
तदधिकैरथ लालनकौशलै: प्रणयिनीमधिकं सुखयन्निमाम् । अयि मुकुन्द भवच्चरितानि न: प्रगदतां गदतान्तिमपाकुरु ॥१२॥
तत्-अधिकै:-अथthen more than beforeलालन-कौशलै:by affection expertisesप्रणयिनीम्-अधिकंthe belove…